50+ Chanakya Sanskirt Shlok With Hindi Meaning – चाणक्य नीति संस्कृत श्लोक

  • Post author:
  • Post last modified:

Chanakya Sanskrit Shloks : बहुत से लोग ऐसे हैं जो इंटरनेट पर Chanakya Sanskrit Shloks ढूंढते रहते हैं लेकिन उनको कोई अच्छे Sanskrit Shloks नहीं मिल पाते जो “Chanakya Sanskrit Shloks” पढ़ने में रुचि रखते हैं उनके लिए यह पेज Chanakya Sanskrit Shloks एक अच्छा सोर्स है जहां से वह कई तरह के मोटिवेशन, जीवन में सफलता पाने के लिए, कठिनाइयों से जूझने के लिए Sanskrit Shloks का सहारा ले सकते हैं।

Chanakya Sanskrit Shloks PDF Download

आप इस पेज के माध्यम से Chanakya Sanskrit Shloks के साथ उनके हिंदी अर्थ भी डाउनलोड कर सकते हैं जो आप कभी भी उसके बाद पढ़ सकते हैं.

All Chanakya Sanskrit Shloks With Hindi Meaning – चाणक्य नीति स्त्री श्लोक

कश्चित् कस्यचिन्मित्रं, न कश्चित् कस्यचित् रिपु:। 
अर्थतस्तु निबध्यन्ते, मित्राणि रिपवस्तथा ॥

मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च। 
दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति॥

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः। 
ससर्पे गृहे वासो मृत्युरेव न संशयः॥

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः। 
पञ्च यत्र न विद्यन्ते न तत्र दिवसे वसेत ॥

जानीयात्प्रेषणेभृत्यान् बान्धवान्व्यसनाऽऽगमे। 
मित्रं याऽऽपत्तिकालेषु भार्यां च विभवक्षये ॥

यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः। 
न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत् ॥

माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी। 
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि। 
आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥

लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता। 
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संगतिम् ॥

आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसण्कटे। 
राजद्वारे श्मशाने च यात्तिष्ठति स बान्धवः ॥

भोज्यं भोजनशक्तिश्च रतिशक्तिर वरांगना । 
विभवो दानशक्तिश्च नाऽल्पस्य तपसः फलम् ॥

निषेवते प्रशस्तानी निन्दितानी न सेवते । 
अनास्तिकः श्रद्धान एतत् पण्डितलक्षणम् ॥

क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता। 
यमर्थान् नापकर्षन्ति स वै पण्डित उच्यते ॥

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥

क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थ भते न कामात्।
नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत् प्रज्ञानं प्रथमं पण्डितस्य ॥

आत्मज्ञानं समारम्भः तितिक्षा धर्मनित्यता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। 
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।
न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । 
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥

निश्चित्वा यः प्रक्रमते नान्तर्वसति कर्मणः । 
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥

न हृष्यत्यात्मसम्माने नावमानेन तप्यते। 
गाङ्गो ह्रद ईवाक्षोभ्यो यः स पण्डित उच्यते ॥

प्रवृत्तवाक् विचित्रकथ ऊहवान् प्रतिभानवान्। 
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। 
असम्भित्रायेमर्यादः पण्डिताख्यां लभेत सः ॥

अश्रुतश्च समुत्रद्धो दरिद्रश्य महामनाः। 
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति। 
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥

अकामान् कामयति यः कामयानान् परित्यजेत्। 
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । 
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥

संसारयति कृत्यानि सर्वत्र विचिकित्सते।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥

अनाहूत: प्रविशति अपृष्टो बहु भाषेते ।
अविश्चस्ते विश्चसिति मूढचेता नराधम: ॥

परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा । 
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥

अर्थम् महान्तमासाद्य विद्यामैश्वर्यमेव वा। 
विचरत्यसमुन्नद्धो य: स पंडित उच्यते ॥

एकः सम्पत्रमश्नाति वस्त्रे वासश्च शोभनम् । 
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥

एक: पापानि कुरुते फलं भुङ्क्ते महाजन:। 
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। 
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रम सराजकम् ॥

एकमेवाद्वितीयम तद् यद् राजन्नावबुध्यसे। 
सत्यम स्वर्गस्य सोपानम् पारवारस्य नैरिव ॥

एकः क्षमावतां दोषो द्वतीयो नोपपद्यते। 
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥

सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्। 
क्षमा गुणों ह्यशक्तानां शक्तानां भूषणं क्षमा ॥

एको धर्म: परम श्रेय: क्षमैका शान्तिरुक्तमा। 
विद्वैका परमा तृप्तिरहिंसैका सुखावहा ॥

द्वविमौ ग्रसते भूमिः सर्पो बिलशयानिवं। 
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥

द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते। 
अब्रुवं परुषं कश्चित् असतोऽनर्चयंस्तथा ॥

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ। 
यश्चाधनः कामयते यश्च कुप्यत्यनीश्चरः ॥

द्वाविमौ पुरुषौ राजन स्वर्गस्योपरि तिष्ठत: । 
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥

न्यायार्जितस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । 
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥

त्रिविधं नरकस्येदं द्वारम नाशनमात्मन: । 
काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥

चत्वारि राज्ञा तु महाबलेना वर्ज्यान्याहु: पण्डितस्तानि विद्यात् । 
अल्पप्रज्ञै: सह मन्त्रं न कुर्यात दीर्घसुत्रै रभसैश्चारणैश्च ॥

Conclusion: चाणक्य नीति के साथ संस्कृत श्लोक अर्थ पढ़ने के लिए यह पेज Chanakya Sanskrit Shloks एक अच्छा सोर्स है जहां पर आपको कई तरह के संस्कृत श्लोक पढ़ने को मिल जाएंगे।

FAQs About Chanakya Sanskrit Shloks :

Q1. चाणक्य नीति में कुल कितने श्लोक होते हैं ?

Ans : चाणक्य नीति में एक नहीं, दो नहीं, बहुत सारे श्लोक हैं जिनकी कोई गिनती नहीं।

Q2. चाणक्य नीति संस्कृत हिन्दी PDF कहां से डाउनलोड करें ?

Ans : a1jaankari.com पर आपको हर तरह के चाणक्य नीति की हिंदी पीडीऍफ़ डाउनलोड कर सकते हैं।

Q3. चाणक्य नीति संस्कृत श्लोक क्या है ?

Ans : Chanakya Sanskrit Shloks वह श्लोक है जो चाणक्य द्वारा लिखे गए हैं और जो काफी प्रसिद्ध है इन श्लोक से आपको काफी कुछ सीखने को मिलता है।

Spread the love

Leave a Reply